Sukta 2.11
नि पर्वतः साद्यप्रयुच्छन्त्सं मातृभिर्वावशानो अक्रान् । दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन्नि ॥
नि पर्व॑तः सा॒द्यप्र॑युच्छ॒न्त्सं मा॒तृभि॑र्वावशा॒नो अ॑क्रान् । दू॒रे पा॒रे वाणीं॑ व॒र्धय॑न्त॒ इन्द्रे॑षितां ध॒मनिं॑ पप्रथ॒न्नि ॥
ní párvataḥ sā́di áprāyucchan sáṃ mātṛ́bhiḥ vāvaśā́nō akrān | dūrḗ pāré vā́ṇīṃ vardháyanta índrēṣitāṃ dhámaniṃ paprathán ní ||
The mountain sat down, no longer holding back; with the Mothers he moved, eager and impelled. Far on the farther shore they increased the Word; driven by Indra they spread out the channel of the breath/stream and set it firmly.
नि । पर्व॑तः । सा॒दि॒ । अप्र॑ऽयुच्छन् । सम् । मा॒तृऽभिः॑ । वा॒व॒शा॒नः । अ॒क्रा॒न् । दू॒रे । पा॒रे । वाणी॑म् । व॒र्धय॑न्तः । इन्द्र॑ऽइषिताम् । ध॒मनि॑म् । प॒प्र॒थ॒न् । नि ॥नि । पर्वतः । सादि । अप्रयुच्छन् । सम् । मातृभिः । वावशानः । अक्रान् । दूरे । पारे । वाणीम् । वर्धयन्तः । इन्द्रइषिताम् । धमनिम् । पप्रथन् । नि ॥ni | parvataḥ | sādi | apra-yucchan | sam | mātṛ-bhiḥ | vāvaśānaḥ | akrān | dūre | pāre | vāṇīm | vardhayantaḥ | indra-iṣitām | dhamanim | paprathan | ni