Sukta 2.11
अरोरवीद्वृष्णो अस्य वज्रोऽमानुषं यन्मानुषो निजूर्वात् । नि मायिनो दानवस्य माया अपादयत्पपिवान्त्सुतस्य ॥
अरो॑रवी॒द्वृष्णो॑ अस्य॒ वज्रोऽमा॑नुषं॒ यन्मानु॑षो नि॒जूर्वा॑त् । नि मा॒यिनो॑ दान॒वस्य॑ मा॒या अपा॑दयत्पपि॒वान्त्सु॒तस्य॑ ॥
ároravīd vṛ́ṣṇo asya vájro ’mā́nuṣaṃ yán mā́nuṣo nijū́rvāt | ní māyíno dānavásya māyā́ apā́dayat papivā́nt sutásya ||
The vajra of this Bull roared—non-human in its might—when the human (in us) is worn down. Drinking of the pressed Soma, he cast down the illusive arts of the Dānava, the deceiver.
अरो॑रवीत् । वृष्णः॑ । अ॒स्य॒ । वज्रः॑ । अमा॑नुषम् । यत् । मानु॑षः । नि॒ऽजूर्वा॑त् । नि । मा॒यिनः॑ । दा॒न॒वस्य॑ । मा॒याः । अपा॑दयत् । प॒पि॒ऽवान् । सु॒तस्य॑ ॥अरोरवीत् । वृष्णः । अस्य । वज्रः । अमानुषम् । यत् । मानुषः । निजूर्वात् । नि । मायिनः । दानवस्य । मायाः । अपादयत् । पपिवान् । सुतस्य ॥aroravīt | vṛṣṇaḥ | asya | vajraḥ | amānuṣam | yat | mānuṣaḥ | ni-jūrvāt | ni | māyinaḥ | dānavasya | māyāḥ | apādayat | papi-vān | sutasya