Sukta 2.11
स्तवा नु त इन्द्र पूर्व्या महान्युत स्तवाम नूतना कृतानि । स्तवा वज्रं बाह्वोरुशन्तं स्तवा हरी सूर्यस्य केतू ॥
स्तवा॒ नु त॑ इन्द्र पू॒र्व्या म॒हान्यु॒त स्त॑वाम॒ नूत॑ना कृ॒तानि॑ । स्तवा॒ वज्रं॑ बा॒ह्वोरु॒शन्तं॒ स्तवा॒ हरी॒ सूर्य॑स्य के॒तू ॥
stávā nu te indra pūrvyā́ mahā́ny utá stavāma nū́tanā kṛtā́ni | stávā vájraṃ bāhvór uśántaṃ stávā hárī sū́ryasya ketū́ ||
Now we praise for you, Indra, the ancient greatnesses, and we praise the new deeds you have done. We praise the thunderbolt desired in your arms; we praise your two tawny steeds, the radiant signals of the Sun.
स्तव॑ । नु । ते॒ । इ॒न्द्र॒ । पू॒र्व्या । म॒हानि॑ । उ॒त । स्त॒वा॒म॒ । नूत॑ना । कृ॒तानि॑ । स्तव॑ । वज्र॑म् । बा॒ह्वोः । उ॒शन्त॑म् । स्तव॑ । हरी॒ इति॑ । सूर्य॑स्य । के॒तू इति॑ ॥स्तव । नु । ते । इन्द्र । पूर्व्या । महानि । उत । स्तवाम । नूतना । कृतानि । स्तव । वज्रम् । बाह्वोः । उशन्तम् । स्तव । हरी इति । सूर्यस्य । केतू इति ॥stava | nu | te | indra | pūrvyā | mahāni | uta | stavāma | nūtanā | kṛtāni | stava | vajram | bāhvoḥ | uśantam | stava | harī iti | sūryasya | ketū iti