Sukta 2.11
गुहा हितं गुह्यं गूळ्हमप्स्वपीवृतं मायिनं क्षियन्तम् । उतो अपो द्यां तस्तभ्वांसमहन्नहिं शूर वीर्येण ॥
गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्स्वपी॑वृतं मा॒यिनं॑ क्षि॒यन्त॑म् । उ॒तो अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं॑ शूर वी॒र्ये॑ण ॥
gúhā hitáṃ gúhyaṃ gūḷhám apsv ápīvṛtaṃ māyínaṃ kṣiyántaṃ | utó apó dyā́ṃ tastábhvāṃsam áhann áhiṃ śūra vī́ryeṇa ||
Hidden in secrecy, secret and concealed in the waters, covered over—the magician-force that dwelt there: you, O hero, struck down the Serpent by your might, and you set free the waters and upheld the heaven.
गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्सु । अपि॑ऽवृतम् । मा॒यिन॑म् । क्षि॒यन्त॑म् । उ॒तो इति॑ । अ॒पः । द्याम् । त॒स्त॒भ्वांस॑म् । अह॑न् । अहि॑म् । शू॒र॒ । वी॒र्ये॑ण ॥गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्सु । अपिवृतम् । मायिनम् । क्षियन्तम् । उतो इति । अपः । द्याम् । तस्तभ्वांसम् । अहन् । अहिम् । शूर । वीर्येण ॥guhā | hitam | guhyam | gūḷham | apsu | api-vṛtam | māyinam | kṣiyantam | uto iti | apaḥ | dyām | tastabhvāṃsam | ahan | ahim | śūra | vīryeṇa