Sukta 2.11
उक्थेष्विन्नु शूर येषु चाकन्त्स्तोमेष्विन्द्र रुद्रियेषु च । तुभ्येदेता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः ॥
उ॒क्थेष्विन्नु शू॑र॒ येषु॑ चा॒कन्त्स्तोमे॑ष्विन्द्र रु॒द्रिये॑षु च । तुभ्येदे॒ता यासु॑ मन्दसा॒नः प्र वा॒यवे॑ सिस्रते॒ न शु॒भ्राः ॥
ukthéṣv ín nu śūra yéṣu cā́kan stómeṣv indra rudriyéṣu ca | túbhyéd etā́ yā́su mandasā́naḥ prá vā́yave sisrate ná śubhrā́ḥ ||
In the hymns indeed, O hero, in which you take delight—in the chants, O Indra, and in the Rudra-like exaltations—toward you these (streams) run, where you, exhilarated, drive them forward like bright currents for Vāyu (the Life-Breath).
उ॒क्थेषु॑ । इत् । नु । शू॒र॒ । येषु॑ । चा॒कन् । स्तोमे॑षु । इ॒न्द्र॒ । रु॒द्रिये॑षु । च॒ । तुभ्य॑ । इत् । ए॒ताः । यासु॑ । म॒न्द॒सा॒नः । प्र । वा॒यवे॑ । सि॒स्र॒ते॒ । न । शु॒भ्राः ॥उक्थेषु । इत् । नु । शूर । येषु । चाकन् । स्तोमेषु । इन्द्र । रुद्रियेषु । च । तुभ्य । इत् । एताः । यासु । मन्दसानः । प्र । वायवे । सिस्रते । न । शुभ्राः ॥uktheṣu | it | nu | śūra | yeṣu | cākan | stomeṣu | indra | rudriyeṣu | ca | tubhya | it | etāḥ | yāsu | mandasānaḥ | pra | vāyave | sisrate | na | śubhrāḥ