Sukta 2.11
अस्य सुवानस्य मन्दिनस्त्रितस्य न्यर्बुदं वावृधानो अस्तः । अवर्तयत्सूर्यो न चक्रं भिनद्वलमिन्द्रो अङ्गिरस्वान् ॥
अ॒स्य सु॑वा॒नस्य॑ म॒न्दिन॑स्त्रि॒तस्य॒ न्यर्बु॑दं वावृधा॒नो अ॑स्तः । अव॑र्तय॒त्सूर्यो॒ न च॒क्रं भि॒नद्व॒लमिन्द्रो॒ अङ्गि॑रस्वान् ॥
asyá suvānáśya mandínaḥ tritásya ní arbudáṃ vāvṛdhānáḥ astaḥ | ávartayat sū́ryo ná cakráṃ bhínad válam índro áṅgirasvān ||
Of this Soma-pourer, the ecstasy-filled Trita, Indra, growing in power, cast down Arbuda. He set the wheel in motion like the Sun, and he broke Vala—Indra, companion of the Angirases—releasing the hidden light.
अ॒स्य । सु॒वा॒नस्य॑ । म॒न्दिनः॑ । त्रि॒तस्य॑ । नि । अर्बु॑दम् । व॒वृ॒धा॒नः । अ॒स्त॒रित्य॑स्तः । अव॑र्तयत् । सूर्यः॑ । न । च॒क्रम् । भि॒नत् । व॒लम् । इन्द्रः॑ । अङ्गि॑रस्वान् ॥अस्य । सुवानस्य । मन्दिनः । त्रितस्य । नि । अर्बुदम् । ववृधानः । अस्तरित्यस्तः । अवर्तयत् । सूर्यः । न । चक्रम् । भिनत् । वलम् । इन्द्रः । अङ्गिरस्वान् ॥asya | suvānasya | mandinaḥ | tritasya | ni | arbudam | vavṛdhānaḥ | astari tyastaḥ | avartayat | sūryaḥ | na | cakram | bhinat | valam | indraḥ | aṅgirasvān