Sukta 2.11
सनेम ये त ऊतिभिस्तरन्तो विश्वाः स्पृध आर्येण दस्यून् । अस्मभ्यं तत्त्वाष्ट्रं विश्वरूपमरन्धयः साख्यस्य त्रिताय ॥
सने॑म॒ ये त॑ ऊ॒तिभि॒स्तर॑न्तो॒ विश्वा॒: स्पृध॒ आर्ये॑ण॒ दस्यू॑न् । अ॒स्मभ्यं॒ तत्त्वा॒ष्ट्रं वि॒श्वरू॑प॒मर॑न्धयः सा॒ख्यस्य॑ त्रि॒ताय॑ ॥
sanéma yé ta utíbhiḥ táranto víśvāḥ spṛ́dha ā́ryeṇa dásyūn | asmábhyaṃ tát tvā́ṣṭraṃ viśvárūpam arandhayaḥ sā́khyasya tritā́ya ||
May we win—those who, by your protecting powers, cross beyond all the clashes and overcome the Dasyu-forces by the Aryan (noble) light. For us you subdued that all-forming, all-manifest power of Tvashtri, for the sake of friendship with Trita (the inner companion).
सने॑म । ये । ते॒ । ऊ॒तिऽभिः॑ । तर॑न्तः । विश्वाः॑ । स्पृधः॑ । आर्ये॑ण । दस्यू॑न् । अ॒स्मभ्य॑म् । तत् । त्वा॒ष्ट्रम् । वि॒श्वऽरू॑पम् । अर॑न्धयः । सा॒ख्यस्य॑ । त्रि॒ताय॑ ॥सनेम । ये । ते । ऊतिभिः । तरन्तः । विश्वाः । स्पृधः । आर्येण । दस्यून् । अस्मभ्यम् । तत् । त्वाष्ट्रम् । विश्वरूपम् । अरन्धयः । साख्यस्य । त्रिताय ॥sanema | ye | te | ūti-bhiḥ | tarantaḥ | viśvāḥ | spṛdhaḥ | āryeṇa | dasyūn | asmabhyam | tat | tvāṣṭram | viśva-rūpam | arandhayaḥ | sākhyasya | tritāya