Sukta 2.11
धिष्वा शवः शूर येन वृत्रमवाभिनद्दानुमौर्णवाभम् । अपावृणोर्ज्योतिरार्याय नि सव्यतः सादि दस्युरिन्द्र ॥
धि॒ष्वा शव॑: शूर॒ येन॑ वृ॒त्रम॒वाभि॑न॒द्दानु॑मौर्णवा॒भम् । अपा॑वृणो॒र्ज्योति॒रार्या॑य॒ नि स॑व्य॒तः सा॑दि॒ दस्यु॑रिन्द्र ॥
dhíṣvā śávaḥ śūra yéna vṛtrám avā́bhinad dā́num aurṇavābhám | apā́vṛṇor jyótir ā́ryāya ní savyatáḥ sā́di dásyur indra ||
Set in you your force, O hero, by which you broke Vṛtra, the Dānu, the weaver of obstruction. You uncovered the Light for the Arya; the Dasyu sank down to the left, O Indra.
धि॒ष्व । शवः॑ । शू॒र॒ । येन॑ । वृ॒त्रम् । अ॒व॒ऽअभि॑नत् । दानु॑म् । औ॒र्ण॒ऽवा॒भम् । अप॑ । अ॒वृ॒णोः॒ । ज्योतिः॑ । आर्या॑य । नि । स॒व्य॒तः । सा॒दि॒ । दस्युः॑ । इ॒न्द्र॒ ॥धिष्व । शवः । शूर । येन । वृत्रम् । अवअभिनत् । दानुम् । और्णवाभम् । अप । अवृणोः । ज्योतिः । आर्याय । नि । सव्यतः । सादि । दस्युः । इन्द्र ॥dhiṣva | śavaḥ | śūra | yena | vṛtram | ava-abhinat | dānum | aurṇa-vābham | apa | avṛṇoḥ | jyotiḥ | āryāya | ni | savyataḥ | sādi | dasyuḥ | indra