Sukta 2.11
उग्रेष्विन्नु शूर मन्दसानस्त्रिकद्रुकेषु पाहि सोममिन्द्र । प्रदोधुवच्छ्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्य पीतिम् ॥
उ॒ग्रेष्विन्नु शू॑र मन्दसा॒नस्त्रिक॑द्रुकेषु पाहि॒ सोम॑मिन्द्र । प्र॒दोधु॑व॒च्छ्मश्रु॑षु प्रीणा॒नो या॒हि हरि॑भ्यां सु॒तस्य॑ पी॒तिम् ॥
ugréṣv ín nu śūra mandasānás tríkadrukeṣu pāhi sómam indra | prá dodhuvac chmáśruṣu prīṇānó yā́hi háribhyāṃ sutásya pītím ||
Now among the intense energies, O hero, exultant, drink the Soma in the three cups, O Indra. Delighting, with the foam upon your beard, come with your two tawny steeds to the drinking of the pressed delight.
उ॒ग्रेषु॑ । इत् । नु । शू॒र॒ । म॒न्द॒सा॒नः । त्रिऽक॑द्रुकेषु । पा॒हि॒ । सोम॑म् । इ॒न्द्र॒ । प्र॒ऽदोधु॑वत् । श्मश्रु॑षु । प्री॒णा॒नः । या॒हि । हरि॑ऽभ्याम् । सु॒तस्य॑ । पी॒तिम् ॥उग्रेषु । इत् । नु । शूर । मन्दसानः । त्रिकद्रुकेषु । पाहि । सोमम् । इन्द्र । प्रदोधुवत् । श्मश्रुषु । प्रीणानः । याहि । हरिभ्याम् । सुतस्य । पीतिम् ॥ugreṣu | it | nu | śūra | mandasānaḥ | tri-kadrukeṣu | pāhi | somam | indra | pra-dodhuvat | śmaśruṣu | prīṇānaḥ | yāhi | hari-bhyām | sutasya | pītim