Sukta 2.11
बृहन्त इन्नु ये ते तरुत्रोक्थेभिर्वा सुम्नमाविवासान् । स्तृणानासो बर्हिः पस्त्यावत्त्वोता इदिन्द्र वाजमग्मन् ॥
बृ॒हन्त॒ इन्नु ये ते॑ तरुत्रो॒क्थेभि॑र्वा सु॒म्नमा॒विवा॑सान् । स्तृ॒णा॒नासो॑ ब॒र्हिः प॒स्त्या॑व॒त्त्वोता॒ इदि॑न्द्र॒ वाज॑मग्मन् ॥
bṛhántá ín nu yé te tarutrokthébhiḥ vā sumnám āvivāsān | stṛṇānā́so bárhiḥ pastyā́vat tvāūtā́ íd indra vā́jam agman ||
Mighty indeed are they who, O rescuer, by hymns call your grace. Spreading the sacred seat with a sense of home, protected by you, O Indra, they attain the plenitude of force (vāja).
बृ॒हन्तः॑ । इत् । नु । ये । ते॒ । त॒रु॒त्र॒ । उ॒क्थेभिः॑ । वा॒ । सु॒म्नम् । आ॒ऽविवा॑सान् । स्तृ॒णा॒नासः॑ । ब॒र्हिः । प॒स्त्य॑ऽवत् । त्वाऽऊ॑ताः । इत् । इ॒न्द्र॒ । वाज॑म् । अ॒ग्म॒न् ॥बृहन्तः । इत् । नु । ये । ते । तरुत्र । उक्थेभिः । वा । सुम्नम् । आविवासान् । स्तृणानासः । बर्हिः । पस्त्यवत् । त्वाऊताः । इत् । इन्द्र । वाजम् । अग्मन् ॥bṛhantaḥ | it | nu | ye | te | tarutra | ukthebhiḥ | vā | sumnam | āvivāsān | stṛṇānāsaḥ | barhiḥ | pastya-vat | tvāūtāḥ | it | indra | vājam | agman