Sukta 2.11
व्यन्त्विन्नु येषु मन्दसानस्तृपत्सोमं पाहि द्रह्यदिन्द्र । अस्मान्त्सु पृत्स्वा तरुत्रावर्धयो द्यां बृहद्भिरर्कैः ॥
व्यन्त्विन्नु येषु॑ मन्दसा॒नस्तृ॒पत्सोमं॑ पाहि द्र॒ह्यदि॑न्द्र । अ॒स्मान्त्सु पृ॒त्स्वा त॑रु॒त्राव॑र्धयो॒ द्यां बृ॒हद्भि॑र॒र्कैः ॥
vyàntv ín nu yéṣu mandasānás tṛpát sómaṃ pāhi drahyàd indra | asmā́nt su pṛ́tsv ā́ tarutra avardhayo dyā́ṃ bṛhád-bhir arkáiḥ ||
Let them scatter now—those against whom you are exultant; satisfied, drink the Soma, O Indra, and press on. In our battles, bring us safely across, O rescuer; you who have made heaven grow vast by your mighty hymns.
व्यन्तु॑ । इत् । नु । येषु॑ । म॒न्द॒सा॒नः । तृ॒पत् । सोम॑म् । पा॒हि॒ । द्र॒ह्यत् । इ॒न्द्र॒ । अ॒स्मान् । सु । पृ॒त्ऽसु । आ । त॒रु॒त्र॒ । अव॑र्धयः । द्याम् । बृ॒हत्ऽभिः॑ । अ॒र्कैः ॥व्यन्तु । इत् । नु । येषु । मन्दसानः । तृपत् । सोमम् । पाहि । द्रह्यत् । इन्द्र । अस्मान् । सु । पृत्सु । आ । तरुत्र । अवर्धयः । द्याम् । बृहत्भिः । अर्कैः ॥vyantu | it | nu | yeṣu | mandasānaḥ | tṛpat | somam | pāhi | drahyat | indra | asmān | su | pṛt-su | ā | tarutra | avardhayaḥ | dyām | bṛhat-bhiḥ | arkaiḥ