Sukta 2.11
रासि क्षयं रासि मित्रमस्मे रासि शर्ध इन्द्र मारुतं नः । सजोषसो ये च मन्दसानाः प्र वायवः पान्त्यग्रणीतिम् ॥
रासि॒ क्षयं॒ रासि॑ मि॒त्रम॒स्मे रासि॒ शर्ध॑ इन्द्र॒ मारु॑तं नः । स॒जोष॑सो॒ ये च॑ मन्दसा॒नाः प्र वा॒यव॑: पा॒न्त्यग्र॑णीतिम् ॥
rā́si kṣáyaṃ rā́si mitrám asmē rā́si śárdha indra mā́rutam naḥ | sajóṣaso yé ca mandasānā́ḥ prá vā́yavaḥ pā́nty ágraṇītím ||
Grant us the settled dwelling, grant us harmony; grant us, O Indra, the Marut-host. And those who are of one accord and glad—may the forward-driving powers guard our leadership on the path.
रासि॑ । क्षय॑म् । रासि॑ । मि॒त्रम् । अ॒स्मे इति॑ । रासि॑ । शर्धः॑ । इ॒न्द्र॒ । मारु॑तम् । नः॒ । स॒ऽजोष॑सः । ये । च॒ । म॒न्द॒सा॒नाः । प्र । वा॒यवः॑ । पा॒न्ति॒ । अग्र॑ऽनीतिम् ॥रासि । क्षयम् । रासि । मित्रम् । अस्मे इति । रासि । शर्धः । इन्द्र । मारुतम् । नः । सजोषसः । ये । च । मन्दसानाः । प्र । वायवः । पान्ति । अग्रनीतिम् ॥rāsi | kṣayam | rāsi | mitram | asme iti | rāsi | śardhaḥ | indra | mārutam | naḥ | sa-joṣasaḥ | ye | ca | mandasānāḥ | pra | vāyavaḥ | pānti | agra-nītim