Sukta 2.11
स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः । शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम् ॥
स्याम॒ ते त॑ इन्द्र॒ ये त॑ ऊ॒ती अ॑व॒स्यव॒ ऊर्जं॑ व॒र्धय॑न्तः । शु॒ष्मिन्त॑मं॒ यं चा॒कना॑म देवा॒स्मे र॒यिं रा॑सि वी॒रव॑न्तम् ॥
syā́ma te ta indra yé ta ūtī́ avasyáva ūrjáṃ vardháyantaḥ | śuṣmíntamaṃ yáṃ cā́kanāma devā́smé rayíṃ rāsi vīrávantam ||
May we be yours, O Indra—those who, desiring your help, increase the energy in us. The most puissant that we seek to delight, O God—grant to us the plenitude rich in heroic force.
स्याम॑ । ते । ते॒ । इ॒न्द्र॒ । ये । ते॒ । ऊ॒ती । अ॒व॒स्यवः॑ । ऊर्ज॑म् । व॒र्धय॑न्तः । शु॒ष्मिन्ऽत॑मम् । यम् । चा॒कना॑म । दे॒व॒ । अ॒स्मे इति॑ । र॒यिम् । रा॒सि॒ । वी॒रऽव॑न्तम् ॥स्याम । ते । ते । इन्द्र । ये । ते । ऊती । अवस्यवः । ऊर्जम् । वर्धयन्तः । शुष्मिन्तमम् । यम् । चाकनाम । देव । अस्मे इति । रयिम् । रासि । वीरवन्तम् ॥syāma | te | te | indra | ye | te | ūtī | avasyavaḥ | ūrjam | vardhayantaḥ | śuṣmin-tamam | yam | cākanāma | deva | asme iti | rayim | rāsi | vīra-vantam