Sukta 2.11
त्वे इन्द्राप्यभूम विप्रा धियं वनेम ऋतया सपन्तः । अवस्यवो धीमहि प्रशस्तिं सद्यस्ते रायो दावने स्याम ॥
त्वे इ॒न्द्राप्य॑भूम॒ विप्रा॒ धियं॑ वनेम ऋत॒या सप॑न्तः । अ॒व॒स्यवो॑ धीमहि॒ प्रश॑स्तिं स॒द्यस्ते॑ रा॒यो दा॒वने॑ स्याम ॥
tvé índrā́py abhūma víprā dhíyaṃ vanema ṛtáyā sápantaḥ | avasyávo dhīmahi práśastiṃ sadyás te rāyó dā́vane syāma ||
In you, O Indra, we have found our support; as seers pressing on by the path of ṛta, may we win the inspired thought. Seeking help, we meditate your praise—so that at once we may be fit for your giving of the plenitude (rāyas).
त्वे इति॑ । इ॒न्द्र॒ । अपि॑ । अ॒भू॒म॒ । विप्राः॑ । धिय॑म् । व॒ने॒म॒ । ऋ॒त॒ऽया । सप॑न्तः । अ॒व॒स्यवः॑ । धी॒म॒हि॒ । प्रऽश॑स्तिम् । स॒द्यः । ते॒ । रा॒यः । दा॒वने॑ । स्या॒म॒ ॥त्वे इति । इन्द्र । अपि । अभूम । विप्राः । धियम् । वनेम । ऋतया । सपन्तः । अवस्यवः । धीमहि । प्रशस्तिम् । सद्यः । ते । रायः । दावने । स्याम ॥tve iti | indra | api | abhūma | viprāḥ | dhiyam | vanema | ṛta-yā | sapantaḥ | avasyavaḥ | dhīmahi | pra-śastim | sadyaḥ | te | rāyaḥ | dāvane | syāma