Sukta 2.10
उत्तानायामजनयन्त्सुषूतं भुवदग्निः पुरुपेशासु गर्भः । शिरिणायां चिदक्तुना महोभिरपरीवृतो वसति प्रचेताः ॥
उ॒त्ता॒नाया॑मजनय॒न्त्सुषू॑तं॒ भुव॑द॒ग्निः पु॑रु॒पेशा॑सु॒ गर्भ॑: । शिरि॑णायां चिद॒क्तुना॒ महो॑भि॒रप॑रीवृतो वसति॒ प्रचे॑ताः ॥
uttānā́yām ajanayan suṣū́taṃ bhúvad agníḥ puru-péśāsu gárbhaḥ | śíriṇāyāṃ cid aktúnā máhobhir áparīvṛto vasati prá-cetāḥ ||
In the outstretched one they brought forth the well-born: Agni became the embryo in many-formed shapes. Even in the hard ground, by the night and by great powers, the conscious one dwells, uncovered and awake to the way.
उ॒त्ता॒नाया॑म् । अ॒ज॒न॒य॒न् । सुऽसू॑तम् । भुव॑त् । अ॒ग्निः । पु॒रु॒ऽपेशा॑सु । गर्भः॑ । शिरि॑णायाम् । चि॒त् । अ॒क्तुना॑ । महः॑ऽभिः । अप॑रिऽवृतः । व॒स॒ति॒ । प्रऽचे॑ताः ॥उत्तानायाम् । अजनयन् । सुसूतम् । भुवत् । अग्निः । पुरुपेशासु । गर्भः । शिरिणायाम् । चित् । अक्तुना । महःभिः । अपरिवृतः । वसति । प्रचेताः ॥uttānāyām | ajanayan | su-sūtam | bhuvat | agniḥ | puru-peśāsu | garbhaḥ | śiriṇāyām | cit | aktunā | mahaḥ-bhiḥ | apari-vṛtaḥ | vasati | pra-cetāḥ