Sukta 2.10
श्रूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरमृतो विचेताः । श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ॥
श्रू॒या अ॒ग्निश्चि॒त्रभा॑नु॒र्हवं॑ मे॒ विश्वा॑भिर्गी॒र्भिर॒मृतो॒ विचे॑ताः । श्या॒वा रथं॑ वहतो॒ रोहि॑ता वो॒तारु॒षाह॑ चक्रे॒ विभृ॑त्रः ॥
śrūyā́ agníś citrá-bhānur hávaṃ me viśvā́bhir gī́r-bhir amṛ́to vícetāḥ | śyā́vā ráthaṃ vahato róhitā vā utā́ruṣā́ha cakre víbhṛtraḥ ||
May Agni of the varied radiance hear my call, the immortal discerner, with all my inspired words. Two dark ones and two ruddy ones draw his chariot—his yoked powers—bearing it with steady support.
श्रु॒याः । अ॒ग्निः । चि॒त्रऽभा॑नुः । हव॑म् । मे॒ । विश्वा॑भिः । गीः॒ऽभिः । अ॒मृतः॑ । विऽचे॑ताः । श्या॒वा । रथ॑म् । व॒ह॒तः॒ । रोहि॑ता । वा॒ । उ॒त । अ॒रु॒षा । अह॑ । च॒क्रे॒ । विऽभृ॑त्रः ॥श्रुयाः । अग्निः । चित्रभानुः । हवम् । मे । विश्वाभिः । गीःभिः । अमृतः । विचेताः । श्यावा । रथम् । वहतः । रोहिता । वा । उत । अरुषा । अह । चक्रे । विभृत्रः ॥śruyāḥ | agniḥ | citra-bhānuḥ | havam | me | viśvābhiḥ | gīḥ-bhiḥ | amṛtaḥ | vi-cetāḥ | śyāvā | ratham | vahataḥ | rohitā | vā | uta | aruṣā | aha | cakre | vi-bhṛtraḥ