Sukta 2.10
जिघर्म्यग्निं हविषा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा । पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नै रभसं दृशानम् ॥
जिघ॑र्म्य॒ग्निं ह॒विषा॑ घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑ । पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नम् ॥
jígharmy agníṃ havíṣā ghṛténa prati-kṣiyántaṃ bhúvanāni víśvā | pṛthúṃ tiraścā́ váyasā bṛhántam vyáciṣṭham ánnai rabhasáṃ dṛśā́nam ||
I anoint Agni with the offering and with clarified butter—him who takes possession of all the worlds. Wide, spreading across, great in growth, most pervasive—seen as a swift power through the nourishments.
जिघ॑र्मि । अ॒ग्निम् । ह॒विषा॑ । घृ॒तेन॑ । प्र॒ति॒ऽक्षि॒यन्त॑म् । भुव॑नानि । विश्वा॑ । पृ॒थुम् । ति॒र॒श्चा । वय॑सा । बृ॒हन्त॑म् । व्यचि॑ष्ठम् । अन्नैः॑ । र॒भ॒सम् । दृशा॑नम् ॥जिघर्मि । अग्निम् । हविषा । घृतेन । प्रतिक्षियन्तम् । भुवनानि । विश्वा । पृथुम् । तिरश्चा । वयसा । बृहन्तम् । व्यचिष्ठम् । अन्नैः । रभसम् । दृशानम् ॥jigharmi | agnim | haviṣā | ghṛtena | prati-kṣiyantam | bhuvanāni | viśvā | pṛthum | t iraścā | vayasā | bṛhantam | vyaciṣṭham | annaiḥ | rabhasam | dṛśānam