Sukta 2.10
जोहूत्रो अग्निः प्रथमः पितेवेळस्पदे मनुषा यत्समिद्धः । श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स वाजी ॥
जो॒हूत्रो॑ अ॒ग्निः प्र॑थ॒मः पि॒तेवे॒ळस्प॒दे मनु॑षा॒ यत्समि॑द्धः । श्रियं॒ वसा॑नो अ॒मृतो॒ विचे॑ता मर्मृ॒जेन्य॑: श्रव॒स्य१॒॑: स वा॒जी ॥
johū́tro agníḥ prathamáḥ pitéva íḷas-páde mánuṣā yát sámiddhaḥ | śríyaṃ vásāno amṛ́to vícetā marmṛjényāḥ śravasyàḥ sá vājī́ ||
Agni, the much-invoking, is the first—like a father—when he is kindled by men in the place of Iḷā. Wearing the radiance of plenitude, immortal and discerning, he is the purifier who is to be rubbed bright; he is the bringer of victorious force and of worthy fame.
जो॒हूत्रः॑ । अ॒ग्निः । प्र॒थ॒मः । पि॒ताऽइ॑व । इ॒ळः । प॒दे । मनु॑षा । यत् । सम्ऽइ॑द्धः । श्रिय॑म् । वसा॑नः । अ॒मृतः॑ । विऽचे॑ताः । म॒र्मृ॒जेन्यः॑ । श्र॒व॒स्यः॑ । सः । वा॒जी ॥जोहूत्रः । अग्निः । प्रथमः । पिताइव । इळः । पदे । मनुषा । यत् । सम्इद्धः । श्रियम् । वसानः । अमृतः । विचेताः । मर्मृजेन्यः । श्रवस्यः । सः । वाजी ॥johūtraḥ | agniḥ | prathamaḥ | pitāiva | iḷaḥ | pade | manuṣā | yat | sam-iddhaḥ | śriyam | vasānaḥ | amṛtaḥ | vi-cetāḥ | marmṛjenyaḥ | śravasyaḥ | saḥ | vājī