Sukta 10.99
स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषदर्शसानाय शरुम् । स नृतमो नहुषोऽस्मत्सुजातः पुरोऽभिनदर्हन्दस्युहत्ये ॥
स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा॑विषदर्शसा॒नाय॒ शरु॑म् । स नृत॑मो॒ नहु॑षो॒ऽस्मत्सुजा॑त॒: पुरो॑ऽभिन॒दर्ह॑न्दस्यु॒हत्ये॑ ॥
sá druhváṇe mánuṣa ūrdhvasāná ā́ sāviṣad arśasānā́ya śárum | sá nṛ́tamo náhuṣo 'smát sujā́taḥ púro 'bhinad árhan dasyuhátye ||
He, rising upward, launched the arrow for the treacherous man, for the assailing one. He, the most manly—Nahuṣa, well-born from us—broke open the strongholds, worthy in the slaying of the Dasyus.
सः । द्रुह्व॑णे । मनु॑षे । ऊ॒र्ध्व॒सा॒नः । आ । सा॒वि॒ष॒त् । अ॒र्श॒सा॒नाय॑ । शरु॑म् । सः । नृऽत॑मः । नहु॑षः । अ॒स्मत् । सुऽजा॑तः । पुरः॑ । अ॒भि॒न॒त् । अर्ह॑न् । द॒स्यु॒ऽहत्ये॑ ॥सः । द्रुह्वणे । मनुषे । ऊर्ध्वसानः । आ । साविषत् । अर्शसानाय । शरुम् । सः । नृतमः । नहुषः । अस्मत् । सुजातः । पुरः । अभिनत् । अर्हन् । दस्युहत्ये ॥saḥ | druhvaṇe | manuṣe | ūrdhvasānaḥ | ā | sāviṣat | arśasānāya | śarum | saḥ | nṛ-tamaḥ | nahuṣaḥ | asmat | su-jātaḥ | puraḥ | abhinat | arhan | dasyu-hatye