Sukta 10.99
सो अभ्रियो न यवस उदन्यन्क्षयाय गातुं विदन्नो अस्मे । उप यत्सीददिन्दुं शरीरैः श्येनोऽयोपाष्टिर्हन्ति दस्यून् ॥
सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे । उप॒ यत्सीद॒दिन्दुं॒ शरी॑रैः श्ये॒नोऽयो॑पाष्टिर्हन्ति॒ दस्यू॑न् ॥
só abhriyó ná yávasa udanyán kṣáyāya gātúṃ vidán no asmè | úpa yát sī́dad índuṃ śárīraiḥ śyénó 'yopā́ṣṭir hanti dásyūn ||
Like a rain-cloud thirsting for pasture, he finds for us the path to a dwelling. When he settles near the Soma with his embodied powers, then like a falcon with iron talons he strikes down the Dasyus.
सः । अ॒भ्रियः॑ । न । यव॑से । उ॒द॒न्यन् । क्षया॑य । गा॒तुम् । वि॒दत् । नः॒ । अ॒स्मे इति॑ । उप॑ । यत् । सीद॑त् । इन्दु॑म् । शरी॑रैः । श्ये॒नः । अयः॑ऽअपाष्टिः । ह॒न्ति॒ । दस्यू॑न् ॥सः । अभ्रियः । न । यवसे । उदन्यन् । क्षयाय । गातुम् । विदत् । नः । अस्मे इति । उप । यत् । सीदत् । इन्दुम् । शरीरैः । श्येनः । अयःअपाष्टिः । हन्ति । दस्यून् ॥saḥ | abhriyaḥ | na | yavase | udanyan | kṣayāya | gātum | vidat | naḥ | asme iti | upa | yat | sīdat | indum | śarīraiḥ | śyenaḥ | ayaḥ-apāṣṭiḥ | hanti | dasyūn