Sukta 10.99
स रुद्रेभिरशस्तवार ऋभ्वा हित्वी गयमारेअवद्य आगात् । वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायन् ॥
स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑मा॒रेअ॑वद्य॒ आगा॑त् । व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री॒ अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ॥
sá rudrébhir áśastavāra ṛ́bhvā hitvī́ gáyam āré 'avadyá ā́gāt | vamrásya manye mithunā́ vivavrī́ ánnam abhī́ty ā́rodayan muṣā́yan ||
He came with the Rudras, choosing what is not to be blamed, the skillful one, leaving behind Gaya. I think he opened apart the pair in the ant-hill; approaching the food, he made it cry out, taking it away.
सः । रु॒द्रेभिः॑ । अश॑स्तऽवारः । ऋभ्वा॑ । हि॒त्वी । गय॑म् । आ॒रेऽअ॑वद्यः । आ । अ॒गा॒त् । व॒म्रस्य॑ । म॒न्ये॒ । मि॒थु॒ना । विव॑व्री॒ इति॒ विऽव॑व्री । अन्न॑म् । अ॒भि॒ऽइत्य॑ । अ॒रो॒द॒य॒त् । मु॒षा॒यन् ॥सः । रुद्रेभिः । अशस्तवारः । ऋभ्वा । हित्वी । गयम् । आरेअवद्यः । आ । अगात् । वम्रस्य । मन्ये । मिथुना । विवव्री इति विवव्री । अन्नम् । अभिइत्य । अरोदयत् । मुषायन् ॥saḥ | rudrebhiḥ | aśasta-vāraḥ | ṛbhvā | hitvī | gayam | āre--avadyaḥ | ā | agāt | vamrasya | manye | mithunā | vivavrī itivi-vavrī | annam | abhi-itya | arodayat | muṣāyan