Sukta 10.99
स यह्व्योऽवनीर्गोष्वर्वा जुहोति प्रधन्यासु सस्रिः । अपादो यत्र युज्यासोऽरथा द्रोण्यश्वास ईरते घृतं वाः ॥
स य॒ह्व्यो॒३॒॑ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या॑सु॒ सस्रि॑: । अ॒पादो॒ यत्र॒ युज्या॑सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ॥
sá yahvyò 'vanī́r góṣv arvā́ juhoti pradhanyā̀su sásriḥ | apā́do yátra yújyāso 'rathā́ droṇyàśvāsá ī́rate ghṛtáṃ vā́ḥ ||
He, the impetuous one, pours the moving streams among the Cows; in the battles he runs forth. Where there are footless chariots fit for yoking, with horses in the trough, there the ghee-rich currents are set in motion.
सः । य॒ह्व्यः॑ । अ॒वनीः॑ । गोषु॑ । अर्वा॑ । आ । जु॒हो॒ति॒ । प्र॒ऽध॒न्या॑सु । सस्रिः॑ । अ॒पादः॑ । यत्र॑ । युज्या॑सः । अ॒र॒थाः । द्रो॒णिऽअ॑श्वासः । ईर॑ते । घृ॒तम् । वाः ॥सः । यह्व्यः । अवनीः । गोषु । अर्वा । आ । जुहोति । प्रधन्यासु । सस्रिः । अपादः । यत्र । युज्यासः । अरथाः । द्रोणिअश्वासः । ईरते । घृतम् । वाः ॥saḥ | yahvyaḥ | avanīḥ | goṣu | arvā | ā | juhoti | pra-dhanyāsu | sasriḥ | apādaḥ | yatra | yujyāsaḥ | arathāḥ | droṇi-aśvāsaḥ | īrate | ghṛtam | vāḥ