Sukta 10.99
स वाजं यातापदुष्पदा यन्त्स्वर्षाता परि षदत्सनिष्यन् । अनर्वा यच्छतदुरस्य वेदो घ्नञ्छिश्नदेवाँ अभि वर्पसा भूत् ॥
स वाजं॒ याताप॑दुष्पदा॒ यन्त्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् । अ॒न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नञ्छि॒श्नदे॑वाँ अ॒भि वर्प॑सा॒ भूत् ॥
sá vā́jaṃ yā́tā́páduṣpadā́ yáṇ svàrṣātā́ párī ṣadat saniṣyán | anarvā́ yác chatádurasya védo ghnáñ chiśnádevā̃́ abhi várpasā bhū́t ||
He goes to the Vāja, traversing the difficult steps; winning the Sun-world he takes his seat, seeking the gain. When the unfaltering Knower of the hundred-doored stronghold struck down the false-gods, he became manifest in overpowering form.
सः । वाज॑म् । याता॑ । अप॑दुःऽपदा । यन् । स्वः॑ऽसाता । परि॑ । स॒द॒त् । स॒नि॒ष्यन् । अ॒न॒र्वा । यत् । श॒तऽदु॑रस्य । वेदः॑ । घ्नन् । शि॒श्नऽदे॑वान् । अ॒भि । वर्प॑सा । भूत् ॥सः । वाजम् । याता । अपदुःपदा । यन् । स्वःसाता । परि । सदत् । सनिष्यन् । अनर्वा । यत् । शतदुरस्य । वेदः । घ्नन् । शिश्नदेवान् । अभि । वर्पसा । भूत् ॥saḥ | vājam | yātā | apaduḥ-padā | yan | svaḥ-sātā | pari | sadat | saniṣyan | anarvā | yat | śata-durasya | vedaḥ | ghnan | śiśna-devān | abhi | varpasā | bhūt