Sukta 10.99
स हि द्युता विद्युता वेति साम पृथुं योनिमसुरत्वा ससाद । स सनीळेभिः प्रसहानो अस्य भ्रातुर्न ऋते सप्तथस्य मायाः ॥
स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद । स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ॥
sá hí dyutā́ viddhyutā́ veti sā́ma pṛthúṃ yónim asuratvā́ sasāda | sá sanī́ḷebhiḥ prasahā́nó asya bhrā́tur ná ṛté saptáthasya māyā́ḥ ||
For he moves with shining and with flashing, he comes with the chant; by his lordly power he has taken his seat in the wide womb. With his comrades of one nest he prevails; not without the magic workings of the seventh-born brother.
सः । हि । द्यु॒ता । वि॒ऽद्युता॑ । वेति॑ । साम॑ । पृ॒थुम् । योनि॑म् । अ॒सु॒र॒ऽत्वा । स॒सा॒द॒ । सः । सऽनी॑ळेभिः । प्र॒ऽस॒हा॒नः । अ॒स्य॒ । भ्रातुः॑ । न । ऋ॒ते । स॒प्तथ॑स्य । मा॒याः ॥सः । हि । द्युता । विद्युता । वेति । साम । पृथुम् । योनिम् । असुरत्वा । ससाद । सः । सनीळेभिः । प्रसहानः । अस्य । भ्रातुः । न । ऋते । सप्तथस्य । मायाः ॥saḥ | hi | dyutā | vi-dyutā | veti | sāma | pṛthum | yonim | asura-tvā | sasāda | saḥ | sa-nīḷebhiḥ | pra-sahānaḥ | asya | bhrātuḥ | na | ṛte | saptathasya | māyāḥ