Sukta 10.93
ऋभुॠभुक्षा ऋभुर्विधतो मद आ ते हरी जूजुवानस्य वाजिना । दुष्टरं यस्य साम चिदृधग्यज्ञो न मानुषः ॥
ऋ॒भुॠ॑भु॒क्षा ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी॑ जूजुवा॒नस्य॑ वा॒जिना॑ । दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ॥
ṛbhúṛbhukṣā́ ṛbhúrvīdható máda ā́ te hárī jūjuvāná sya vā́jinā | duṣṭáraṃ yásya sā́ma cid ṛ́dhag yajñó ná mā́nuṣaḥ ||
R̥bhu, R̥bhukṣa, R̥bhu—the ecstasy of the arranger comes; to you, O lord of plenitude, your two steeds are yoked for the eager movement. Hard to cross is that harmony of his, and the sacrifice becomes a separate, non-human power—an action lifted beyond ordinary mind.
ऋ॒भुः । ऋ॒भु॒क्षाः । ऋ॒भुः । वि॒ध॒तः । मदः॑ । आ । ते॒ । हरी॒ इति॑ । जू॒जु॒वा॒नस्य॑ । वा॒जिना॑ । दु॒स्तर॑म् । यस्य॑ । साम॑ । चि॒त् । ऋध॑क् । य॒ज्ञः । न । मानु॑षः ॥ऋभुः । ऋभुक्षाः । ऋभुः । विधतः । मदः । आ । ते । हरी इति । जूजुवानस्य । वाजिना । दुस्तरम् । यस्य । साम । चित् । ऋधक् । यज्ञः । न । मानुषः ॥ṛbhuḥ | ṛbhukṣāḥ | ṛbhuḥ | vidhataḥ | madaḥ | ā | te | harī iti | jūjuvānasya | vājinā | dustaram | yasya | sāma | cit | ṛdhak | yajñaḥ | na | mānuṣaḥ