Sukta 10.93
कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् । सहो न इन्द्रो वह्निभिर्न्येषां चर्षणीनां चक्रं रश्मिं न योयुवे ॥
कृ॒धी नो॒ अह्र॑यो देव सवित॒: स च॑ स्तुषे म॒घोना॑म् । स॒हो न॒ इन्द्रो॒ वह्नि॑भि॒र्न्ये॑षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो॑युवे ॥
kṛdhī no áhrayo deva savitaḥ sá ca stuṣe maghónām | sahó na índro váhnibhir ní eṣāṃ carṣaṇīnā́ṃ cakráṃ raśmím ná yoyuve ||
Make us unhurried, O god Savitar; and him I praise among the givers. May Indra with the bearing fires set down in us the force of these peoples—like a wheel’s rim, like a ray held in its right course—so our movement becomes ordered and victorious.
कृ॒धि । नः॒ । अह्र॑यः । दे॒व॒ । स॒वि॒त॒रिति॑ । सः । च॒ । स्तु॒षे॒ । म॒घोना॑म् । स॒हः । नः॒ । इन्द्रः॑ । वह्नि॑ऽभिः । नि । ए॒षा॒म् । च॒र्ष॒णी॒नाम् । च॒क्रम् । र॒श्मिम् । न । यो॒यु॒वे॒ ॥कृधि । नः । अह्रयः । देव । सवितरिति । सः । च । स्तुषे । मघोनाम् । सहः । नः । इन्द्रः । वह्निभिः । नि । एषाम् । चर्षणीनाम् । चक्रम् । रश्मिम् । न । योयुवे ॥kṛdhi | naḥ | ahrayaḥ | deva | savitariti | saḥ | ca | stuṣe | maghonām | sahaḥ | naḥ | indraḥ | vahni-bhiḥ | ni | eṣām | carṣaṇīnām | cakram | raśmim | na | yoyuve