Sukta 10.93
उत नो रुद्रा चिन्मृळतामश्विना विश्वे देवासो रथस्पतिर्भगः । ऋभुर्वाज ऋभुक्षणः परिज्मा विश्ववेदसः ॥
उ॒त नो॑ रु॒द्रा चि॑न्मृळताम॒श्विना॒ विश्वे॑ दे॒वासो॒ रथ॒स्पति॒र्भग॑: । ऋ॒भुर्वाज॑ ऋभुक्षण॒: परि॑ज्मा विश्ववेदसः ॥
utá no rudrā́ cit mṛḷatām aśvínā viśvé devā́so ratháspátir bhágaḥ | ṛbhúrvā́ja ṛbhukṣaṇáḥ párijmā viśvavedasaḥ ||
And may the Rudras too show us mercy; may the Aśvins, all the gods, the lord of the chariot-path, and Bhaga; may the R̥bhus—Vāja, R̥bhukṣan, and the all-moving one—universal knowers, come to our aid and set our energies in right formation.
उ॒त । नः॒ । रु॒द्रा । चि॒त् । मृ॒ळ॒ता॒म् । अ॒श्विना॑ । विश्वे॑ । दे॒वासः॑ । रथः॒पतिः॑ । भगः॑ । ऋ॒भुः । वाजः॑ । ऋ॒भु॒क्ष॒णः॒ । परि॑ऽज्मा । वि॒श्व॒ऽवे॒द॒सः॒ ॥उत । नः । रुद्रा । चित् । मृळताम् । अश्विना । विश्वे । देवासः । रथःपतिः । भगः । ऋभुः । वाजः । ऋभुक्षणः । परिज्मा । विश्ववेदसः ॥uta | naḥ | rudrā | cit | mṛḷatām | aśvinā | viśve | devāsaḥ | rathaḥpatiḥ | bhagaḥ | ṛbhuḥ | vājaḥ | ṛbhukṣaṇaḥ | pari-jmā | viśva-vedasaḥ