Sukta 10.93
उत नो देवावश्विना शुभस्पती धामभिर्मित्रावरुणा उरुष्यताम् । महः स राय एषतेऽति धन्वेव दुरिता ॥
उ॒त नो॑ दे॒वाव॒श्विना॑ शु॒भस्पती॒ धाम॑भिर्मि॒त्रावरु॑णा उरुष्यताम् । म॒हः स रा॒य एष॒तेऽति॒ धन्वे॑व दुरि॒ता ॥
utá no devā́vaśvínā śubhás patī dhā́mabhir mitrā́váruṇā uruṣyatām | maháḥ sá rāyá eṣate ’tí dhánveva duritā́ ||
And may the divine Aśvins, lords of the luminous felicities, and Mitra-Varuṇa protect us by their powers of established light; then the great fullness of being presses forward and crosses beyond the difficulties as one crosses a wide barren stretch.
उ॒त । नः॒ । दे॒वौ । अ॒श्विना॑ । शु॒भः । पती॒ इति॑ । धाम॑ऽभिः । मि॒त्रावरु॑णौ । उ॒रु॒ष्य॒ता॒म् । म॒हः । सः । रा॒यः । आ । ई॒ष॒ते॒ । अति॑ । धन्वा॑ऽइव । दुः॒ऽइ॒ता ॥उत । नः । देवौ । अश्विना । शुभः । पती इति । धामभिः । मित्रावरुणौ । उरुष्यताम् । महः । सः । रायः । आ । ईषते । अति । धन्वाइव । दुःइता ॥uta | naḥ | devau | aśvinā | śubhaḥ | patī iti | dhāma-bhiḥ | mitrāvaruṇau | uruṣyatām | mahaḥ | saḥ | rāyaḥ | ā | īṣate | ati | dhanvāiva | duḥ-itā