Sukta 10.93
उत नो नक्तमपां वृषण्वसू सूर्यामासा सदनाय सधन्या । सचा यत्साद्येषामहिर्बुध्नेषु बुध्न्यः ॥
उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू॒ सूर्या॒मासा॒ सद॑नाय सध॒न्या॑ । सचा॒ यत्साद्ये॑षा॒महि॑र्बु॒ध्नेषु॑ बु॒ध्न्य॑: ॥
utá no náktam apā́ṃ vṛṣaṇvasū sū́ryāmāsā́ sádanāya sadhányā | sacā́ yát sā́di eṣā́m áhir budhnéṣu budhnyáḥ ||
And may Night with the Waters, and the two strong-giving ones, Sun and Moon, come for our seat of consciousness and our true gain; when they sit together, then the serpent-power in the depths becomes awakened in its foundations.
उ॒त । नः॒ । नक्त॑म् । अ॒पाम् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । सूर्या॒मासा॑ । सद॑नाय । स॒ऽध॒न्या॑ । सचा॑ । यत् । सादि॑ । ए॒षा॒म् । अहिः॑ । बु॒ध्नेषु॑ । बु॒ध्न्यः॑ ॥उत । नः । नक्तम् । अपाम् । वृषण्वसू इति वृषण्वसू । सूर्यामासा । सदनाय । सधन्या । सचा । यत् । सादि । एषाम् । अहिः । बुध्नेषु । बुध्न्यः ॥uta | naḥ | naktam | apām | vṛṣaṇvasūitivṛṣaṇ-vasū | sūryāmāsā | sadanāya | sa-dhanyā | sacā | yat | sādi | eṣām | ahiḥ | budhneṣu | budhnyaḥ