Sukta 10.93
विश्वेषामिरज्यवो देवानां वार्महः । विश्वे हि विश्वमहसो विश्वे यज्ञेषु यज्ञियाः ॥
विश्वे॑षामिरज्यवो दे॒वानां॒ वार्म॒हः । विश्वे॒ हि वि॒श्वम॑हसो॒ विश्वे॑ य॒ज्ञेषु॑ य॒ज्ञिया॑: ॥
viśvéṣāmirajyavo devānā́ṃ vārmaháḥ | viśvé hí viśvámahaso viśvé yajñéṣu yajñíyāḥ ||
O all you luminous and ardent Powers, you are the vast protective force of the gods. For all of you are of universal might; all of you are worthy to be invoked and fulfilled in the inner sacrifice.
विश्वे॑षाम् । इ॒र॒ज्य॒वः॒ । दे॒वाना॑म् । वाः । म॒हः । विश्वे॑ । हि । वि॒श्वऽम॑हसः । विश्वे॑ । य॒ज्ञेषु॑ । य॒ज्ञियाः॑ ॥विश्वेषाम् । इरज्यवः । देवानाम् । वाः । महः । विश्वे । हि । विश्वमहसः । विश्वे । यज्ञेषु । यज्ञियाः ॥viśveṣām | irajyavaḥ | devānām | vāḥ | mahaḥ | viśve | hi | viśva-mahasaḥ | viśve | yajñeṣu | yajñiyāḥ