Sukta 10.92
स्तोमं वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसा दिदिष्टन । येभिः शिवः स्ववाँ एवयावभिर्दिवः सिषक्ति स्वयशा निकामभिः ॥
स्तोमं॑ वो अ॒द्य रु॒द्राय॒ शिक्व॑से क्ष॒यद्वी॑राय॒ नम॑सा दिदिष्टन । येभि॑: शि॒वः स्ववाँ॑ एव॒याव॑भिर्दि॒वः सिष॑क्ति॒ स्वय॑शा॒ निका॑मभिः ॥
stomaṃ vo adya rudrāya śikvase kṣayadvīrāya namasā didiṣṭana | yebhiḥ śivaḥ svavāṃ evayāvabhir divaḥ sisakti svayaśā nikāmabhiḥ ||
Today, fashion your hymn of affirmation for Rudra the wise, for the Lord who establishes heroic being; offer it with surrender. By those powers with which he is benign and self-mastering, he extends from heaven his self-luminous energies according to the soul’s true will.
स्तोम॑म् । वः॒ । अ॒द्य । रु॒द्राय॑ । शिक्व॑से । क्ष॒यत्ऽवी॑राय । नम॑सा । दि॒दि॒ष्ट॒न॒ । येभिः॑ । शि॒वः । स्वऽवा॑न् । ए॒व॒याव॑ऽभिः । दि॒वः । सिस॑क्ति । स्वऽय॑शाः । निका॑मऽभिः ॥स्तोमम् । वः । अद्य । रुद्राय । शिक्वसे । क्षयत्वीराय । नमसा । दिदिष्टन । येभिः । शिवः । स्ववान् । एवयावभिः । दिवः । सिसक्ति । स्वयशाः । निकामभिः ॥stomam | vaḥ | adya | rudrāya | śikvase | kṣayat-vīrāya | namasā | didiṣṭana | yebhiḥ | śivaḥ | sva-vān | evayāva-bhiḥ | divaḥ | sisakti | sva-yaśāḥ | nikāma-bhiḥ