Sukta 10.92
ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर्वृषभः सोमजामयः । यज्ञैरथर्वा प्रथमो वि धारयद्देवा दक्षैर्भृगवः सं चिकित्रिरे ॥
ते हि प्र॒जाया॒ अभ॑रन्त॒ वि श्रवो॒ बृह॒स्पति॑र्वृष॒भः सोम॑जामयः । य॒ज्ञैरथ॑र्वा प्रथ॒मो वि धा॑रयद्दे॒वा दक्षै॒र्भृग॑व॒: सं चि॑कित्रिरे ॥
te hi prajāyā abharanta vi śravo bṛhaspatir vṛṣabhaḥ somajāmayaḥ | yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṃ cikitrire ||
They indeed bore forth for the human becoming the wide fame of the Word: Bṛhaspati, the Bull, kin of Soma. By sacrifices Atharvan first established the workings; the gods with skill, the Bhṛgus, came to integral discernment.
ते । हि । प्र॒ऽजायाः॑ । अभ॑रन्त । वि । श्रवः॑ । बृह॒स्पतिः॑ । वृ॒ष॒भः । सोम॑ऽजामयः । य॒ज्ञैः । अथ॑र्वा । प्र॒थ॒मः । वि । धा॒र॒य॒त् । दे॒वाः । दक्षैः॑ । भृग॑वः । सम् । चि॒कि॒त्रि॒रे॒ ॥ते । हि । प्रजायाः । अभरन्त । वि । श्रवः । बृहस्पतिः । वृषभः । सोमजामयः । यज्ञैः । अथर्वा । प्रथमः । वि । धारयत् । देवाः । दक्षैः । भृगवः । सम् । चिकित्रिरे ॥te | hi | pra-jāyāḥ | abharanta | vi | śravaḥ | bṛhaspatiḥ | vṛṣabhaḥ | soma-jāmayaḥ | yajñaiḥ | atharvā | prathamaḥ | vi | dhārayat | devāḥ | dakṣaiḥ | bhṛgavaḥ | sam | cikitrire