Sukta 10.92
सूरश्चिदा हरितो अस्य रीरमदिन्द्रादा कश्चिद्भयते तवीयसः । भीमस्य वृष्णो जठरादभिश्वसो दिवेदिवे सहुरिः स्तन्नबाधितः ॥
सूर॑श्चि॒दा ह॒रितो॑ अस्य रीरम॒दिन्द्रा॒दा कश्चि॑द्भयत॒ज तवी॑यसः । भी॒मस्य॒ वृष्णो॑ ज॒ठरा॑दभि॒श्वसो॑ दि॒वेदि॑वे॒ सहु॑रिः स्त॒न्नबा॑धितः ॥
sūraś cidā harito asya rīramad indrādā kaś cid bhayataja tavīyasaḥ | bhīmasya vṛṣṇo jaṭharād abhiśvaso divedive sahuriḥ stan abādhitaḥ ||
Even the luminous Sun and his swift steeds are set in motion by him; from Indra’s surpassing might, who indeed could stand unafraid? From the belly of the formidable Bull rises the strong breath of force; day by day the enduring power presses forward, unconquered.
सूरः॑ । चि॒त् । आ । ह॒रितः॑ । अ॒स्य॒ । री॒र॒म॒त् । इन्द्रा॑त् । आ । कः । चि॒त् । भ॒य॒ते॒ । तवी॑यसः । भी॒मस्य॑ । वृष्णः॑ । ज॒ठरा॑त् । अ॒भि॒ऽश्वसः॑ । दि॒वेऽदि॑वे । सहु॑रिः । स्त॒न् । अबा॑धितः ॥सूरः । चित् । आ । हरितः । अस्य । रीरमत् । इन्द्रात् । आ । कः । चित् । भयते । तवीयसः । भीमस्य । वृष्णः । जठरात् । अभिश्वसः । दिवेदिवे । सहुरिः । स्तन् । अबाधितः ॥sūraḥ | cit | ā | haritaḥ | asya | rīramat | indrāt | ā | kaḥ | cit | bhayate | tavīyasaḥ | bhīmasya | vṛṣṇaḥ | jaṭharāt | abhi-śvasaḥ | dive--dive | sahuriḥ | stan | abādhitaḥ