Sukta 10.92
इन्द्रे भुजं शशमानास आशत सूरो दृशीके वृषणश्च पौंस्ये । प्र ये न्वस्यार्हणा ततक्षिरे युजं वज्रं नृषदनेषु कारवः ॥
इन्द्रे॒ भुजं॑ शशमा॒नास॑ आशत॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ । प्र ये न्व॑स्या॒र्हणा॑ ततक्षि॒रे युजं॒ वज्रं॑ नृ॒षद॑नेषु का॒रव॑: ॥
índre bhújaṃ śaśamānā́sa āśata sū́ro dṛśī́ke vṛ́ṣaṇaś ca paúṃsye | prá yé nv asyā́rhaṇā tatakṣiré yújaṃ vájraṃ nṛsádaneṣu kā́ravaḥ ||
In Indra they attained the might, growing in mastery; the Sun in vision, and the bull in manly power. Those craftsmen who were worthy fashioned for him the yoked thunderbolt in the seats of the human soul.
इन्द्रे॑ । भुज॑म् । श॒श॒मा॒नासः॑ । आ॒श॒त॒ । सूरः॑ । दृशी॑के । वृष॑णः । च॒ । पौंस्ये॑ । प्र । ये । नु । अ॒स्य॒ । अ॒र्हणा॑ । त॒त॒क्षि॒रे । युज॑म् । वज्र॑म् । नृ॒ऽसद॑नेषु । का॒रवः॑ ॥इन्द्रे । भुजम् । शशमानासः । आशत । सूरः । दृशीके । वृषणः । च । पौंस्ये । प्र । ये । नु । अस्य । अर्हणा । ततक्षिरे । युजम् । वज्रम् । नृसदनेषु । कारवः ॥indre | bhujam | śaśamānāsaḥ | āśata | sūraḥ | dṛśīke | vṛṣaṇaḥ | ca | paiṃsye | pra | ye | nu | asya | arhaṇā | tatakṣire | yujam | vajram | nṛ-sadaneṣu | kāravaḥ