Sukta 10.92
क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य नीळयः । तेभिश्चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिरर्वशेभिरर्वशः ॥
क्रा॒णा रु॒द्रा म॒रुतो॑ वि॒श्वकृ॑ष्टयो दि॒वः श्ये॒नासो॒ असु॑रस्य नी॒ळय॑: । तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मेन्द्रो॑ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ॥
krāṇā́ rudrā́ marúto viśvákṛṣṭayo diváḥ śyénāso ásurasya nīḷáyaḥ | tébhiś caṣṭe váruṇo mitró aryaméndro devébhir arvaśébhir árvaśaḥ ||
The strong Rudras, the Maruts of all the peoples, the heaven’s hawks, the dwelling powers of the Asura—by them Varuṇa beholds, Mitra, Aryaman, Indra; by the gods, by the swift ones, ever swift.
क्रा॒णाः । रु॒द्राः । म॒रुतः॑ । वि॒श्वऽकृ॑ष्टयः । दि॒वः । श्ये॒नासः॑ । असु॑रस्य । नी॒ळयः॑ । तेभिः॑ । च॒ष्टे॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । इन्द्रः॑ । दे॒वेभिः॑ । अ॒र्व॒शेभिः । अर्व॑शः ॥क्राणाः । रुद्राः । मरुतः । विश्वकृष्टयः । दिवः । श्येनासः । असुरस्य । नीळयः । तेभिः । चष्टे । वरुणः । मित्रः । अर्यमा । इन्द्रः । देवेभिः । अर्वशेभिः । अर्वशः ॥krāṇāḥ | rudrāḥ | marutaḥ | viśva-kṛṣṭayaḥ | divaḥ | śyenāsaḥ | asurasya | nīḷayaḥ | tebhiḥ | caṣṭe | varuṇaḥ | mitraḥ | aryamā | indraḥ | devebhiḥ | arvaśebhiḥ | arvaśaḥ