Sukta 10.92
ऋतस्य हि प्रसितिर्द्यौरुरु व्यचो नमो मह्यरमतिः पनीयसी । इन्द्रो मित्रो वरुणः सं चिकित्रिरेऽथो भगः सविता पूतदक्षसः ॥
ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो॒ नमो॑ म॒ह्य१॒॑रम॑ति॒: पनी॑यसी । इन्द्रो॑ मि॒त्रो वरु॑ण॒: सं चि॑कित्रि॒रेऽथो॒ भग॑: सवि॒ता पू॒तद॑क्षसः ॥
ṛtásya hí prásitir dyáur urú vyáco námo mahy àramatíḥ panī́yasī | índro mitró váruṇaḥ sáṃ cikitrire ’thó bhágaḥ savitā́ pūtádakṣasaḥ ||
For wide heaven is the forward-impulsion of Ṛta, far-spreading; reverence to the great Aramati, most admirable. Indra, Mitra, Varuṇa have together perceived it; and Bhaga, Savitṛ—of purified discernment.
ऋ॒तस्य॑ । हि । प्रऽसि॑तिः । द्यौः । उ॒रु । व्यचः॑ । नमः॑ । म॒ही । अ॒रम॑तिः । पना॑यसी । इन्द्रः॑ । मि॒त्रः । वरु॑णः । सम् । चि॒कि॒त्रि॒रे । अथो॒ इति॑ । भगः॑ । स॒वि॒ता । पू॒तऽद॑क्षसः ॥ऋतस्य । हि । प्रसितिः । द्यौः । उरु । व्यचः । नमः । मही । अरमतिः । पनायसी । इन्द्रः । मित्रः । वरुणः । सम् । चिकित्रिरे । अथो इति । भगः । सविता । पूतदक्षसः ॥ṛtasya | hi | pra-sitiḥ | dyauḥ | uru | vyacaḥ | namaḥ | mahī | aramatiḥ | panāyasī | indraḥ | mitraḥ | varuṇaḥ | sam | cikitrire | atho iti | bhagaḥ | savitā | pūta-dakṣasaḥ