Sukta 10.92
बळस्य नीथा वि पणेश्च मन्महे वया अस्य प्रहुता आसुरत्तवे । यदा घोरासो अमृतत्वमाशतादिज्जनस्य दैव्यस्य चर्किरन् ॥
बळ॑स्य नी॒था वि प॒णेश्च॑ मन्महे व॒या अ॑स्य॒ प्रहु॑ता आसु॒रत्त॑वे । य॒दा घो॒रासो॑ अमृत॒त्वमाश॒तादिज्जन॑स्य॒ दैव्य॑स्य चर्किरन् ॥
báḷasya nīthā́ ví paṇéś ca manmahe vayā́ asya práhutā ā́sūr áttave | yadā́ ghórāso amṛtatvám ā́śatā́d íj jánasya daívyasya carkiran ||
We ponder the leadings of his strength, and the breaking open of the Paṇi; his birds (swift powers) were sent forth to devour. When the terrible ones reached immortality, then indeed they made the divine race resound with their cry of victory.
बट् । अ॒स्य॒ । नी॒था । वि । प॒णेः । च॒ । म॒न्म॒हे॒ । व॒याः । अ॒स्य॒ । प्रऽहु॑ताः । आ॒सुः॒ । अत्त॑वे । य॒दा । घो॒रासः॑ । अ॒मृ॒त॒ऽत्वम् । आश॑त । आत् । इत् । जन॑स्य । दैव्य॑स्य । च॒र्कि॒र॒न् ॥बट् । अस्य । नीथा । वि । पणेः । च । मन्महे । वयाः । अस्य । प्रहुताः । आसुः । अत्तवे । यदा । घोरासः । अमृतत्वम् । आशत । आत् । इत् । जनस्य । दैव्यस्य । चर्किरन् ॥baṭ | asya | nīthā | vi | paṇeḥ | ca | manmahe | vayāḥ | asya | pra-hutāḥ | āsuḥ | attave | yadā | ghorāsaḥ | amṛta-tvam | āśata | āt | it | janasya | daivyasya | carkiran