Sukta 10.92
इममञ्जस्पामुभये अकृण्वत धर्माणमग्निं विदथस्य साधनम् । अक्तुं न यह्वमुषसः पुरोहितं तनूनपातमरुषस्य निंसते ॥
इ॒मम॑ञ्ज॒स्पामु॒भये॑ अकृण्वत ध॒र्माण॑म॒ग्निं वि॒दथ॑स्य॒ साध॑नम् । अ॒क्तुं न य॒ह्वमु॒षस॑: पु॒रोहि॑तं॒ तनू॒नपा॑तमरु॒षस्य॑ निंसते ॥
imám añjaspā́m ubháye akṛṇvata dharmā́ṇam agníṃ vidáthasya sā́dhanam | aktúṃ na yahvám uṣásaḥ puróhitaṃ tanūnapātam aruṣásya niṃsate ||
This Agni, swift to anoint with brightness, both (heaven and earth / both sides) have made the upholder of the law, the accomplisher of the assembly. Like the night’s flame, the impetuous one is set in front by the Dawns; Tanūnapāt, of the Ruddy One, is established.
इ॒मम् । अ॒ञ्जः॒ऽपाम् । उ॒भये॑ । अ॒कृ॒ण्व॒त॒ । ध॒र्माण॑म् । अ॒ग्निम् । वि॒दथ॑स्य । साध॑नम् । अ॒क्तुम् । न । य॒ह्वम् । उ॒षसः॑ । पु॒रःऽहि॑तम् । त॒नू॒ऽनपा॑तम् । अ॒रु॒षस्य॑ । निं॒स॒ते॒ ॥इमम् । अञ्जःपाम् । उभये । अकृण्वत । धर्माणम् । अग्निम् । विदथस्य । साधनम् । अक्तुम् । न । यह्वम् । उषसः । पुरःहितम् । तनूनपातम् । अरुषस्य । निंसते ॥imam | añjaḥ-pām | ubhaye | akṛṇvata | dharmāṇam | agnim | vidathasya | sādhanam | aktum | na | yahvam | uṣasaḥ | puraḥ-hitam | tanū-napātam | aruṣasya | niṃsate