Sukta 10.92
यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुम् । शोचञ्छुष्कासु हरिणीषु जर्भुरद्वृषा केतुर्यजतो द्यामशायत ॥
य॒ज्ञस्य॑ वो र॒थ्यं॑ वि॒श्पतिं॑ वि॒शां होता॑रम॒क्तोरति॑थिं वि॒भाव॑सुम् । शोच॒ञ्छुष्का॑सु॒ हरि॑णीषु॒ जर्भु॑र॒द्वृषा॑ के॒तुर्य॑ज॒तो द्याम॑शायत ॥
yajñásya vo rathyàṃ viśpátiṃ viśā́ṃ hótāram aktór átithiṃ vibhā́vasum | śócan śúṣkāsu háriṇīṣu járbhurad vṛ́ṣā ketúr yajató dyā́m aśāyata ||
Your charioteer of the sacrifice, the lord of the peoples, the Hotṛ of the clans, the guest of the nights, the all-illuminating—burning, he labours amid the dry kindlings. The mighty radiant sign, adorable, has stretched himself to heaven.
य॒ज्ञस्य॑ । वः॒ । र॒थ्य॑म् । वि॒श्पति॑म् । वि॒शाम् । होता॑रम् । अ॒क्तोः । अति॑थिम् । वि॒भाऽव॑सुम् । शोच॑न् । शुष्का॑सु । हरि॑णीषु । जर्भु॑रत् । वृषा॑ । के॒तुः । य॒ज॒तः । द्याम् । अ॒शा॒य॒त॒ ॥यज्ञस्य । वः । रथ्यम् । विश्पतिम् । विशाम् । होतारम् । अक्तोः । अतिथिम् । विभावसुम् । शोचन् । शुष्कासु । हरिणीषु । जर्भुरत् । वृषा । केतुः । यजतः । द्याम् । अशायत ॥(RV_10,92)yajñasya | vaḥ | rathyam | viśpatim | viśām | hotāram | aktoḥ | atithim | vibhāvasum | śocan | śuṣkāsu | hariṇīṣu | jarbhurat | vṛṣā | ketuḥ | yajataḥ | dyām | aśāyata