Sukta 10.92
प्र नः पूषा चरथं विश्वदेव्योऽपां नपादवतु वायुरिष्टये । आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि श्रुतम् ॥
प्र न॑: पू॒षा च॒रथं॑ वि॒श्वदे॑व्यो॒ऽपां नपा॑दवतु वा॒युरि॒ष्टये॑ । आ॒त्मानं॒ वस्यो॑ अ॒भि वात॑मर्चत॒ तद॑श्विना सुहवा॒ याम॑नि श्रुतम् ॥
pra naḥ pūṣā carathaṃ viśvadevyo 'pāṃ napād avatu vāyur iṣṭaye | ātmānaṃ vasyo abhi vātam arcata tad aśvinā suhavā yāmani śrutam ||
May Pūṣan lead forward our journey; may the All-godhead protect; may Apāṃ Napāt guard; may Vāyu aid our chosen seeking. Praise the Breath that turns toward the more luminous good; and may the Aśvins, easy to call, hear this in their going.
प्र । नः॒ । पू॒षा । च॒रथ॑म् । वि॒श्वऽदे॑व्यः । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । वा॒युः । इ॒ष्टये॑ । आ॒त्मान॑म् । वस्यः॑ । अ॒भि । वात॑म् । अ॒र्च॒त॒ । तत् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । याम॑नि । श्रु॒त॒म् ॥प्र । नः । पूषा । चरथम् । विश्वदेव्यः । अपाम् । नपात् । अवतु । वायुः । इष्टये । आत्मानम् । वस्यः । अभि । वातम् । अर्चत । तत् । अश्विना । सुहवा । यामनि । श्रुतम् ॥pra | naḥ | pūṣā | caratham | viśva-devyaḥ | apām | napāt | avatu | vāyuḥ | iṣṭaye | ātmānam | vasyaḥ | abhi | vātam | arcata | tat | aśvinā | su-havā | yāmani | śrutam