Sukta 10.92
उत स्य न उशिजामुर्विया कविरहिः शृणोतु बुध्न्यो हवीमनि । सूर्यामासा विचरन्ता दिविक्षिता धिया शमीनहुषी अस्य बोधतम् ॥
उ॒त स्य न॑ उ॒शिजा॑मुर्वि॒या क॒विरहि॑: शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि । सूर्या॒मासा॑ वि॒चर॑न्ता दिवि॒क्षिता॑ धि॒या श॑मीनहुषी अ॒स्य बो॑धतम् ॥
uta sya na uśijām urviyā kavir ahiḥ śṛṇotu budhnyo hāvīmani | sūryāmāsā vi-carantā divi-kṣitā dhiyā śamīnahuṣī asya bodhatam ||
And may the far-ranging seer, the Serpent, hear us—Budhnya—at the act of offering. May Sun and Moon moving in their heavenly dwelling, by the illumined thought of Śamī and Nahuṣa, awaken to this (our call) and make it conscious in us.
उ॒त । स्यः । नः॒ । उ॒शिजा॑म् । उ॒र्वि॒या । क॒विः । अहिः॑ । शृ॒णो॒तु॒ । बु॒ध्न्यः॑ । हवी॑मनि । सूर्या॒मासा॑ । वि॒ऽचर॑न्ता । दि॒वि॒ऽक्षिता॑ । धि॒या । श॒मी॒न॒हु॒षी॒ इति॑ । अ॒स्य । बो॒ध॒त॒म् ॥उत । स्यः । नः । उशिजाम् । उर्विया । कविः । अहिः । शृणोतु । बुध्न्यः । हवीमनि । सूर्यामासा । विचरन्ता । दिविक्षिता । धिया । शमीनहुषी इति । अस्य । बोधतम् ॥uta | syaḥ | naḥ | uśijām | urviyā | kaviḥ | ahiḥ | śṛṇotu | budhnyaḥ | havīmani | sūryāmāsā | vi-carantā | divi-kṣitā | dhiyā | śamīnahuṣī iti | asya | bodhatam