Sukta 10.90
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् । पशून्ताँश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये ॥
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒: सम्भृ॑तं पृषदा॒ज्यम् । प॒शून्ताँश्च॑क्रे वाय॒व्या॑नार॒ण्यान्ग्रा॒म्याश्च॒ ये ॥
tasmā́d yajñā́t sarvahútaḥ sámbhṛtaṃ pṛṣadā́jyam | paśū́ṃs tā́ṃś cakre vāyavyā̀n āraṇyā́n grā́myāś ca yé ||
From that all-offered sacrifice was gathered the speckled clarified essence; and from it he formed the beasts—those of the winds, those of the forest, and those of the village: the life-forces and instinctive energies are shaped out of the sacrificial transformation and distributed into their domains.
तस्मा॑त् । य॒ज्ञात् । स॒र्व॒ऽहुतः॑ । सम्ऽभृ॑तम् । पृ॒ष॒त्ऽआ॒ज्यम् । प॒शून् । तान् । च॒क्रे॒ । वा॒य॒व्या॑न् । आ॒र॒ण्यान् । ग्रा॒म्याः । च॒ । ये ॥तस्मात् । यज्ञात् । सर्वहुतः । सम्भृतम् । पृषत्आज्यम् । पशून् । तान् । चक्रे । वायव्यान् । आरण्यान् । ग्राम्याः । च । ये ॥tasmāt | yajñāt | sarva-hutaḥ | sam-bhṛtam | pṛṣat-ājyam | paśūn | tān | cakre | vāyavyān | āraṇyān | grāmyāḥ | ca | ye