Sukta 10.90
तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः । तेन देवा अयजन्त साध्या ऋषयश्च ये ॥
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ॥
táṃ yajñáṃ barhíṣi práukṣan púruṣaṃ jātám agratáḥ | téna devā́ ayajanta sā́dhyā ṛ́ṣayaś ca yé ||
That sacrifice they sprinkled upon the sacred seat—the Purusha born in the front of things. By that the gods sacrificed, and the Sādhyas and the seers as well: all the higher powers join in the act of consecration that brings creation into right order.
तम् । य॒ज्ञम् । ब॒र्हिषि॑ । प्र । औ॒क्ष॒न् । पुरु॑षम् । जा॒तम् । अ॒ग्र॒तः । तेन॑ । दे॒वाः । अ॒य॒ज॒न्त॒ । सा॒ध्याः । ऋष॑यः । च॒ । ये ॥तम् । यज्ञम् । बर्हिषि । प्र । औक्षन् । पुरुषम् । जातम् । अग्रतः । तेन । देवाः । अयजन्त । साध्याः । ऋषयः । च । ये ॥tam | yajñam | barhiṣi | pra | aukṣan | puruṣam | jātam | agrataḥ | tena | devāḥ | ayajanta | sādhyāḥ | ṛṣayaḥ | ca | ye