Sukta 10.90
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥
पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य॑म् । उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥
púruṣa evédáṃ sárvaṃ yád bhūtáṃ yác ca bhávyam | utā́mṛtatvásyeśā́no yád ánnenātiroháti ||
Purusha indeed is all this—whatever has become and whatever is yet to become. And he is lord of immortality, for he rises beyond (and supports) by food: by the substance of experience he enters and exceeds embodied life, turning it into a step toward the deathless.
पुरु॑षः । ए॒व । इ॒दम् । सर्व॑म् । यत् । भू॒तम् । यत् । च॒ । भव्य॑म् । उ॒त । अ॒मृ॒त॒ऽत्वस्य॑ । ईशा॑नः । यत् । अन्ने॑न । अ॒ति॒ऽरोह॑ति ॥पुरुषः । एव । इदम् । सर्वम् । यत् । भूतम् । यत् । च । भव्यम् । उत । अमृतत्वस्य । ईशानः । यत् । अन्नेन । अतिरोहति ॥puruṣaḥ | eva | idam | sarvam | yat | bhūtam | yat | ca | bhavyam | uta | amṛta-tvasya | īśānaḥ | yat | annena | ati-rohati