Sukta 10.90
एतावानस्य महिमातो ज्यायाँश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥
ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः । पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥
etā́vān asya mahimā́ áto jyā́yāṃś ca pū́ruṣaḥ | pā́do ’sya víśvā bhūtā́ni tripā́d asyā́mṛtaṃ diví ||
Such is his greatness—and Purusha is yet greater than this. One quarter of him is all beings; three quarters of him are the immortal in the heaven: the unmanifest plenitude exceeds the manifest world.
ए॒तावा॑न् । अ॒स्य॒ । म॒हि॒मा । अतः॑ । ज्याया॑न् । च॒ । पुरु॑षः । पादः॑ । अ॒स्य॒ । विश्वा॑ । भू॒तानि॑ । त्रि॒ऽपात् । अ॒स्य॒ । अ॒मृत॑म् । दि॒वि ॥एतावान् । अस्य । महिमा । अतः । ज्यायान् । च । पुरुषः । पादः । अस्य । विश्वा । भूतानि । त्रिपात् । अस्य । अमृतम् । दिवि ॥etāvān | asya | mahimā | ataḥ | jyāyān | ca | puruṣaḥ | pādaḥ | asya | viśvā | bhūtāni | tri-pāt | asya | amṛtam | divi