Sukta 10.90
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ॥
sahásraśīrṣā́ púruṣaḥ sahasrākṣáḥ sahásrapāt | sá bhū́miṃ viśváto vṛtvā́ áty atiṣṭhad daśāṅgulám ||
The Purusha is a vast being of innumerable heads, eyes, and feet. Encompassing the earth on every side, he yet exceeds it—standing beyond by a measure: the Transcendent that contains the whole manifestation and surpasses it.
स॒हस्र॑ऽशीर्षा । पुरु॑षः । स॒ह॒स्र॒ऽअ॒क्षः । स॒हस्र॑ऽपात् । सः । भूमि॑म् । विश्वतः॑ । वृ॒त्वा । अति॑ । अ॒ति॒ष्ठ॒त् । द॒श॒ऽअ॒ङ्गु॒लम् ॥सहस्रशीर्षा । पुरुषः । सहस्रअक्षः । सहस्रपात् । सः । भूमिम् । विश्वतः । वृत्वा । अति । अतिष्ठत् । दशअङ्गुलम् ॥sahasra-śīrṣā | puruṣaḥ | sahasra-akṣaḥ | sahasra-pāt | saḥ | bhūmim | viśvataḥ | vṛtvā | ati | atiṣṭhat | daśa-aṅgulam