Sukta 10.90
सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः । देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥
स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिध॑: कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥
saptā́syāsan paridháyas tríḥ sapta samídhaḥ kṛtā́ḥ | devā́ yád yajñáṃ tanvānā́ abádhnan púruṣaṃ paśúm ||
Seven were the enclosing measures, and thrice seven the fuel-sticks were made ready; when the gods were extending the sacrifice, they bound the Purusha as the offering-animal—meaning the whole being was held steady for transformation in the Fire.
स॒प्त । अ॒स्य॒ । आ॒स॒न् । प॒रि॒ऽधयः॑ । त्रिः । स॒प्त । स॒म्ऽइधः॑ । कृ॒ताः । दे॒वाः । यत् । य॒ज्ञम् । त॒न्वा॒नाः । अब॑ध्नन् । पुरु॑षम् । प॒शुम् ॥सप्त । अस्य । आसन् । परिधयः । त्रिः । सप्त । सम्इधः । कृताः । देवाः । यत् । यज्ञम् । तन्वानाः । अबध्नन् । पुरुषम् । पशुम् ॥sapta | asya | āsan | pari-dhayaḥ | triḥ | sapta | sam-idhaḥ | kṛtāḥ | devāḥ | yat | yajñam | tanvānāḥ | abadhnan | puruṣam | paśum