Sukta 10.90
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मान॑: सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥
yajñéna yajñám ayajanta devā́s tā́ni dhármāṇi prathamā́ny āsan | té ha nā́kaṃ mahimā́naḥ sacanta yátra pū́rve sādhyā́ḥ sánti devā́ḥ ||
By sacrifice the gods sacrificed the Sacrifice; these were the first laws of the Truth. By that greatness they reached the highest heaven, where the ancient Sādhyas dwell—the accomplished powers who stand at the origin of the divine work.
य॒ज्ञेन॑ । य॒ज्ञम् । अ॒य॒ज॒न्त॒ । दे॒वाः । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒स॒न् । ते । ह॒ । नाक॑म् । म॒हि॒मानः॑ । स॒च॒न्त॒ । यत्र॑ । पूर्वे॑ । सा॒ध्याः । सन्ति॑ । दे॒वाः ॥यज्ञेन । यज्ञम् । अयजन्त । देवाः । तानि । धर्माणि । प्रथमानि । आसन् । ते । ह । नाकम् । महिमानः । सचन्त । यत्र । पूर्वे । साध्याः । सन्ति । देवाः ॥yajñena | yajñam | ayajanta | devāḥ | tāni | dharmāṇi | prathamāni | āsan | te | ha | nākam | mahimānaḥ | sacanta | yatra | pūrve | sādhyāḥ | santi | devāḥ