Sukta 10.90
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥
च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षो॒: सूर्यो॑ अजायत । मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥
candramā́ mánaso jātáś cakṣóḥ sū́ryo ajāyata | múkhād índraś cāgníś ca prāṇā́d vāyúr ajāyata ||
The Moon was born from the Mind—its reflective and measuring light; from the Eye was born the Sun—the seeing that reveals truth. From the Mouth came Indra and Agni—the victorious force and the transforming will; from the Breath arose Vāyu—the life-current that carries the movement of being.
च॒न्द्रमा॑ । मन॑सः । जा॒तः । चक्षोः॑ । सूर्यः॑ । अ॒जा॒य॒त॒ । मुखा॑त् । इन्द्रः॑ । च॒ । अ॒ग्निः । च॒ । प्रा॒णात् । वा॒युः । अ॒जा॒य॒त॒ ॥चन्द्रमा । मनसः । जातः । चक्षोः । सूर्यः । अजायत । मुखात् । इन्द्रः । च । अग्निः । च । प्राणात् । वायुः । अजायत ॥candramā | manasaḥ | jātaḥ | cakṣoḥ | sūryaḥ | ajāyata | mukhāt | indraḥ | ca | agni ḥ | ca | prāṇāt | vāyuḥ | ajāyata