Sukta 10.90
ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥
ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्य॑: कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्य॑: प॒द्भ्यां शू॒द्रो अ॑जायत ॥
brāhmaṇó ’sya múkham āsīd bāhū́ rājányàḥ kṛtáḥ | ūrū́ tád asya yád vaiśyàḥ padbhyā́ṃ śūdró ajāyata ||
The Brāhmaṇa-power was his mouth—the seeing speech that holds the truth; his arms became the Rājanya-force—the strength that protects and governs; his thighs are the Vaiśya-power—the wide support and mutuality; from his feet was born the Śūdra-force—the grounding capacity that bears the works in the world.
ब्रा॒ह्म॒णः॑ । अ॒स्य॒ । मुख॑म् । आ॒सी॒त् बा॒हू इति॑ । रा॒ज॒न्यः॑ । कृ॒तः । ऊ॒रू इति॑ । तत् । अ॒स्य॒ । यत् । वैश्यः॑ । प॒त्ऽभ्याम् । शू॒द्रः । अ॒जा॒य॒त॒ ॥ब्राह्मणः । अस्य । मुखम् । आसीत् बाहू इति । राजन्यः । कृतः । ऊरू इति । तत् । अस्य । यत् । वैश्यः । पत्भ्याम् । शूद्रः । अजायत ॥brāhmaṇaḥ | asya | mukham | āsīt bāhū iti | rājanyaḥ | kṛtaḥ | ūrū iti | tat | asya | yat | vaiśyaḥ | pat-bhyām | śūdraḥ | ajāyata